SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थ प्रकाशा ॥६४१॥ विधानां पिशाचभूतयक्षराक्षसकिन्नरकिम्पुरुषमहोरगगन्धर्वाणां कदम्बवृक्षमुलसवृक्षवटवृक्षखट्वाङ्गाशोकवृक्षचम्पकवृक्षनागवृक्षतुम्वरुवृक्षचिहानां तिर्यग्लोकवासिनां व्यन्तराणां नगराणि । तेष्वपि दक्षिणोत्तरदिग्व्यवस्थितेषु द्वौ द्वाविन्द्रौ । तत्र पिशाचानामिन्द्रौ कालो महाकालश्च । भूतानां सुरूपः प्रतिरूपश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । किन्नराणां किन्नरः किंपुरुषश्च । किंपुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिगीतयशाश्च । रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दश दश योजनानि मुक्त्वा मध्येऽशीतौ योजनेषु अणपन्निवपणपग्निप्रभृतयस्तथैव दक्षिणोत्तरव्यवस्थिता अष्टौ व्यन्तरनिकायाः, तथैव द्वौ द्वाविन्द्रौ । ___ तथा रत्नप्रभायाः पृथिव्याः समतलादुपरि सप्तसु नवत्यधिकेषु योजनशतेषु ज्योतिषामधस्तलप्रदेशः तदुपरि दशयोजनेषु सूर्यः, तदुपर्यशीतियोजनेषु चन्द्रः, तदुपरि विंशतियोजनेषु तारा ग्रहाश्च । एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहल्येन । एकादशभिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपकमेरुमस्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववजे भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतैरेकादशोत्तरैरस्पृशन् मण्ड लिकया तिष्ठति, यदाह, एक्कारसेकवीसा सयमेक्काराहिआ य एक्कारा । मेरु अलोगा बाहं जोइसचकं चरइ ठाइ ॥१॥ अत्र सर्वोपरि किल स्वातिनक्षत्रम् , सर्वेषामधो भरणिनक्षत्रम् , सर्वदक्षिणो मूलः, सर्वोत्तरश्चाभीचिः । तत्र (१) एकादशैकविंशतिः शतान्येक दशाधिकाश्चैकादश । मेरु--अलोकाभ्यां बहिज्योतिश्चक्रं चरति तिष्ठति ॥१॥ कादशभियोजनशतैरेकविंशत्यनतारा ग्रहाश्च । एवमयं से लकया व्यवस्थितं ज्योति ॥६४१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy