________________
योग
चतुर्थ
शास्त्रम्
प्रकाशा
६४०॥
एवमधोमध्योर्वेषु आकारत्रययोगी लोकः, यदाहुः--
तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥१॥ इह चाधस्तियगूज़लोका रुचकापेक्षया । रुचकश्च मेरुमध्यगोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्ध्वम् , एवमष्टप्रदेशः, यदाहु:
अहपएसो रुअगो तिरियलोगस्स मज्झयारम्मि । एस पहवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥ तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः। तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षबाहल्यायामुपर्यधश्च योजनसहखं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलक्षे भवनपतीनां भवनानि । ते चासुरनागविद्युत्सुपर्णाग्निर्वातस्तनितोदधिद्वीपदिक्कुमाराः। ते च चूडामणिफणिवज्रगरुडघटाश्ववर्धमानमकरसिंहहस्तिचिह्नाः । तत्र भवनपतयो दक्षिणोत्तरदिग्व्यवस्थिताः । तत्रासुरकुमाराणां द्वाविन्द्रौ चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदा लिश्च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभजनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णों वशिष्ठश्च । दिक्कुमाराणाममितो मितवाहनश्च । अस्यामेव रत्नप्रभायामुपरितनयोजनसहखस्याध उपरि च योजनशतं मुक्त्वा मध्येऽष्टासु योजनशतेष्वष्ट
(१) अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्यकारे । एष प्रभवो दिशानामेष एव भवेदनुदिशानाम् ॥१॥
॥६४०॥