________________
योगशास्त्रम्
॥६३७||
यदाहः, – “उत्पादव्ययध्रौव्ययुक्तं सत् " आकाशादयोऽपि हि नित्यानित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते च विपद्यन्ते च । प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पादविनाशयोगि वा किञ्चिदस्ति यदवोचामः, -
आदीपमाव्योमसमभावं स्याद्वादमुद्रानतिभेदि वस्तु ।
तन्नित्यमेवैकमनित्यमन्य - दिति त्वदाज्ञाद्विषतां प्रलापाः ||१|| इति ॥ १०३॥
लोकस्वरूपमेवाह—
लोको जगत्त्रयाकीर्णे भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४ ॥
लोक उक्तस्वरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्व रूपेणाकीर्णो व्याप्तः, वदन्ति हि 'अधोलोकः, तिर्यग्लोकः ऊर्ध्वलोकः, इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभा – शर्कराप्रभा – वालुकाप्रभा - धूमप्रभा - तमः प्रभा -- महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाथ, तद्यथा घर्मा, वंशा, शैला अञ्जना अरिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नाप्रभाया अधोऽधः पृथुतराः । तासु त्रिंशत्, पञ्चविंशतिः, पञ्चदश दश, त्रीण्येकं पञ्चानं नरकावासशतसहस्र, पञ्चैव नारकावासा यथाक्रमम् । ताश्च वेष्टिता परिवृता अधः पार्श्वतश्च । कैः ? घनो निविडो न तु द्रवो योऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः, तनुश्वासौ वातश्च तनुवातः तैः । किं विशिष्टैः ? महाबलैः पृथ्वीधारणसमर्थैः ।
चतुर्थ
प्रकाशः
॥६३७॥