________________
योगशास्त्रम्
॥६३६॥
KOTHORE THE=5040
तथा-
अनन्तकायकन्दादिफलमूलदलाशिनाम् । कलत्रपुत्रयुक्तानां वनवासजुषामपि ||३२||
भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ||३३|| अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क धर्मः क फलं तस्य तस्य स्वाख्यातता कथम् १ ||३४|| जिनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् | अनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्षते ॥ ३५ ॥ सस्यतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् ||३६|| स्वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति ||३७|| धर्मस्वाख्यातता भावना १० ॥ १०२ ॥
तथा
अथ लोकभावनामाह -
कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यः पूर्ण स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ १०३ कटिः श्रोणिस्तत्र तिष्ठत इति कटिस्थौ करौ यस्यासौ कटिस्थकरः, वैशाखं प्रसारितापादं तच्च तत् स्थानकं च तत्र तिष्ठति तत्स्थः, स चासौ नरश्च तद्वदाकृतिर्यस्य तं लोकमाकाशक्षेत्रं चतुर्दशरज्जुप्रमाणं स्मरेदनुप्रेक्षेत । किंविशिष्टम् ? द्रव्यैर्धर्माधर्मकालजीवपुद्गलैः पूर्णम्, किंविशिष्टैर्द्रव्यैः ? स्थित्युत्पत्तिव्ययात्मकैः स्थितिर्धौव्यम्, उत्पत्तिरुत्पादः, व्ययो विनाशस्ते आत्मानः स्वरूपं येषां तानि तथा । सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम्
चतुर्थ
प्रकाशः
||६३६॥