________________
चतुर्थ
योगशास्त्रम्
प्रकाशः
u૬૮
तत्र सर्वासां पृथिवीनामधो घनोदधयः मध्योत्सेधे विंशतियोजनसहस्राणि, महावाताः उत्सेधे घनोदधितोड संख्यानि योजनसहखाणि, तनुवाताश्च महाबातेभ्योऽसंख्यानि योजनसहखाणि ततोऽप्यसंख्येयानि योजनसहरसाण्याकाशम् । एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्यमानमिति । घनोदधिवलय विष्कम्भमान रत्नप्रभायाः षड़योजनानि, घनवातवलयविष्कम्भमानमर्धपञ्चमयोजनानि, तनुवातवलयविष्कम्भमानं साधं योजनम् । रत्नप्रभावलयमानादुपरि योजनविभागो घनोदधौ, घनवाते गव्यूतम्, तनुवाते च गव्यूतत्रिभागो वर्तते । एतच्छर्कराप्रभायां वलयमानम् । एवं शर्कराप्रभावलयमानादुपर्ययमेव प्रक्षेपः। एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथिवीं यावत् , यदाहातिभागो गाउयं चेव तिभागो गाउयस्स य । आइधुवे पक्खेवो अहो अहो जाव सत्तमिआ ॥१॥ प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवसेयम् , तद्यथाछस्सतिभाग पउणा य पंच वलयाण जोअणपरिमाणं । एगं बारसभागा सत्त कमा बीयपुढबीए ॥१॥ जोअणसत्ततिभागोण पंच एगं च वलयपरिमाणं । बारसभागा अट्ठ उ तइयाइ जहक्कम नेयं ॥२॥ (१) त्रिभागो गव्यूतं चैव त्रिभागो गव्यूतस्य च । आदिध्रुवे प्रक्षेपोऽधोऽधो यावत् सप्तमीम् ॥१॥ (२) पट्कत्रिभागःप्रन्नाश्च पञ्च वलयानां योजनपरिमाणम् । एकं द्वादशभागाः सप्त क्रमेण द्वितीयपृथिव्याम्॥१॥ योजनसप्तत्रिभागोनं पञ्चैकं च वलयपरिमाणम् । द्वादशभागा अष्ट तु तृतीयायां यथाक्रमं ने (ज्ञे) यम् ॥२॥