________________
पोगशास्त्रम्
चतुर्थ
प्रकाशा
॥६३४॥
धर्मो नरकातालपातादवति देहिनः । धो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥१०२॥ ___ नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिप्रधानभूता धर्मस्य फलम् , शेषं त्वानुषङ्गिकमुक्तमिति । अत्रान्तर श्लोकाः
अयं दशबिधो धर्मों मिथ्याग्भिन वीक्षितः । योऽपि कश्चित् कचित् प्रोक्षे सोऽपि वाङ्मात्रवर्णनम् ॥१॥ तत्त्वार्थों वाचि सर्वेषां केषाश्चन मनस्यपि । क्रिययापि नरीनति नित्यं जिनमतस्पृशाम् ॥२॥ वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः । न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः ॥३॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । याज्ञिकानां कुतो धर्मः प्राणिघातविधायिनाम् ? ॥४॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥५॥ असद्भूतव्यवस्थाभिः पराद्रव्य जिघृक्षताम् । मृत्पानीयादिभिः शौचं स्मार्तादीनां कुतो ननु? ॥६॥ ऋतुकाले व्यतिक्रान्ते भ्रूणहत्याविधायिनाम् । ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ? ॥७॥ अदित्सतोऽपि सर्वस्वं यजमानाज्जिघृक्षताम् । अर्थार्थे त्यजतां प्राणान् काकिश्चन्यं द्विजन्मनाम् ? ॥८॥ दिवसे च रजन्यां च मुखामापृच्छय भक्षताम् । भक्ष्याभक्ष्याविवेकानां सौगतानां कुतस्तपः ? ॥९॥ मृद्वी शय्या प्रातः पेया मध्ये भक्तं सायं पानम् । द्राक्षाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुर्धमः ॥१०॥ स्वल्पे-ष्वप्यपराधेषु क्षणात् शापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ॥११॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥१२॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः । भवेदार्जवलेशोऽपि पाखण्डवतिनां कथम् ? ॥१३।। गृहिणीगृहपुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्ति
॥६३४॥