________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥६३३॥
निरालम्बा निराधारा विश्वाधारो वसुन्धरा। यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥९॥
निरालम्बा आलम्बनस्य रज्ज्वादेरभावात् , निराधारा आधारस्य शेषकूर्मवराहदिक्कुञ्जरादेः प्रमाणानुपपन्नत्वेनाभावात् , विश्वस्य चराचरभेदस्य जगत अधारः, वसुन्धरा पृथ्वी यदवतिष्ठते, नाधः पतति, तत्र धर्मा दन्यद् न कारणम् , अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥९८॥ तथासूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥९९॥
स्पष्टः ॥१९॥ अबन्धुनामसौ वन्धुरसरवीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥१०॥ ___ अबन्धूनां बन्धुरहितानामसौ धर्मो बन्धुः, बन्धुकार्यस्य विपदुत्तारणादेः करणात, असखीनां मित्ररहितानामसौ सखा प्रीत्युत्पादकत्वात् , अनाथानामस्वामिकानामसौ नाथः, योगक्षेमकारित्वात् , यदाह-योगक्षेमकृद नाथः इति । अत्र हेतुर्विश्वकवत्सल:-वत्सं लाति स्नेहेनादत्ते वत्सला गौस्तद्वत् सकलजगत्प्रीतिहेतुत्वाद धर्मोऽपि वत्सलः ॥१०॥
इदानीमनर्थनिवृत्तेः प्राकृतैरप्याकाक्ष्यमाणत्वाद् धर्मफलमाहरक्षोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ॥१०१॥
स्पष्टः ॥१०१॥ इदानी प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्ति च धर्मस्य फलमाह
CATENEDARPAN
६३३॥