________________
योगशास्त्रम्
चतुथ
प्रकाश.
॥६३०॥
परपाखण्डिनीष्वब्रह्मासेवमानस्य ब्रह्मचर्यव्रतलोपः, प्रद्विष्टस्याविरतेषु गृहस्थेषु सहायबुद्धया मूर्छापि स्यादित्यपरिग्रहनतलोपः । उत्तरगुणभङ्गप्रसङ्गे तु का कथा ? । क्रद्धश्च गुरूनप्यासातदधिक्षिपेद् वा । इति क्रोधदोषचिन्तनम् । बालस्वभावचिन्तनाच्च क्षन्तव्यम् । बालोऽज्ञस्तत्स्वभावचिन्तनं पुनर्बालः कदाचित् परोक्षमाक्रोशति कदाचित् प्रत्यक्षम् । आक्रोशम्नपि कश्चित् ताडयति, कश्चिद् मारयति कश्चिद् धर्मभ्रंशमपि चिकीर्षति, तद् दिष्टया वर्धामहे मामेष परोक्षमाक्रोशति न प्रत्यक्षम, प्रत्यक्षं वाऽऽक्रोशति न ताडयति वा न मारयति, मारयति वा न धर्माद् भ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एप ममेति मन्यते, यदाहु:__ अक्कोसहणणमारणधम्मभंसाण बालसुलहाण । लाभ मन्नइ धीरो जहोत्तराण अभावम्मि ॥१॥
इति बालस्वभावचिन्तनम् । स्वकृतकर्मफलाभ्यागमचिन्तनादपि क्षन्तव्यमेव । पूर्वकृतकर्मणां फलाभ्यागम एषः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाहः,
सव्वो पुवकयाण कम्माण पावफलविवागो । अबराहेसु गुणेसु अ निमित्तमित्तं परो होइ ॥१॥ इति स्वकृतकर्मफलाभ्यागमचिन्तनम् । क्षणगुणानुप्रेक्षणाच्च क्षन्तव्यम्-अनायासः क्रोधनिमित्तप्रायश्चित्ता भावः, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम् , स्तिमितप्रसन्नान्तरात्मत्वम् , प्रहरणसहायान्वेषणाभावः. असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अस्वेदता, निष्कम्पता परप्रहारवेदनाऽभाव इति क्षमागुणाः । इति (१) आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानाम् । लाभ मन्यते धीरो यथोत्तराणामभावे ॥१॥ (२) सर्वः पूर्वकृतानां कर्मणां पापफलविपाकः । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१॥
॥६३०॥