________________
योगशास्त्रम्
चतुर्थ
॥६३१॥
प्रकाशः
क्रोधविपक्षः क्षमाधर्मः। __ अथ मार्दवम्-मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नीचैवृत्तिरनुत्सेकश्च, तदुभयमपि मदनिग्रहाद् भवति । मदाश्च जातिमददायः पूर्वमुक्ताः । ततश्च जातिकुलरूपवललाभबुद्धिवाल्लभ्यकश्रुतमदान्धा क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्तीत्यादिमददोषपरिहारहेतुर्मानप्रतिपक्षो मार्दवम् ।
अथ ऋजुता-ऋजुरवक्रमनोवाक्कायकर्मा तस्य भावः कर्म वा ऋजुता मनोवाक्कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयो भवति; यदाह
मायाशील: पुरुषो यद्यपि न करोति कश्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथा ह्या (प्या) त्मदोषहतः॥१॥ इति मायाप्रतिपक्षभूता ऋजुता ।
अथ मुक्तिः-सा च बाह्याभ्यन्तरवस्तुपु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोधमान-माया हिंसा-ऽनृत-स्तेया--ऽब्रह्म-परिग्रहदोषजालेनोपचीयते, यदाह
सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥१॥ इति लोभपरिहाररूपा निर्भयत्व-स्वपरहितात्मप्रवृत्तिमत्त्व-ममत्वाभाव निस्सङ्गता-ऽपरद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्वप्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः। इति दशविधो धर्मः । ननु संयम-सूनृत-शौच-ब्रह्मा-ऽकिचन तानां महाव्रतेषु, क्षमामार्दवावमुक्तीनां संवरप्रकरणे, तपसश्च संवर-निर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम् , किन्तु संयमादिदशविधधर्मप्रतिपादनप्रका
३
॥