________________
योगशास्त्रम्
चतुर्थ प्रकाशा
॥६२९॥
शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत् परिग्रहरहिता भोजनादिकमपि सयमयात्रार्थ शकटाक्षलेपनवत् कुर्वन्ति, न मृर्छया । उपकरणमपि च रजोहरणादिकं संयमरक्षार्थ वस्त्रपात्रादिकं च संयमशरीरपरित्राणार्थ धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिचनता ।
तप उक्तनिर्वचनम् , उक्तस्य संयमादेवक्ष्यमाणस्य क्षान्त्याः संवरहेतोधर्मस्य मध्ये पठितम् , संवरनिर्जराहेतुत्वात् । तच्च द्वादशप्रकारं पूर्वमुक्तम् , प्रकीर्णकं चेदमनेकविधम् , तद्यथा-यवमध्यं, वज्रमध्यं, चान्द्रायणं कनकरत्नमुक्तावल्यस्तिस्त्रः, सिंहविक्रीडिते द्वे सप्त सप्तमिकाद्याः प्रतिमाश्चतस्रः सर्वतोभद्रम्, भद्रोत्तरम् , आचाम्लवर्धमानमित्येवमादि । तथा, द्वादशभिक्षुप्रतिमा मासिक्याधा आ सप्तमासिक्याः सप्त, सप्तरात्रिक्यस्तिस्रः अहोरात्रिकी, एकरात्रिकी च ।
क्षान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः । सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् , क्रोधदोषचिन्तनात् , बालस्वभावचिन्तनात् , स्वकृतकर्मफलाभ्यागमचिन्तनात् , क्षमागुणनुप्रेक्षणाच्च । तत्र येन दोषेण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थ प्रकाशयतः कोऽपराधः । अथ नास्ति तर्हि मृषाऽसौ वदतीति भावाभावविचिन्तनात् क्षमितव्यमेव, यदाह
आष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥१॥ __ क्रोधदोषचिन्तनादपि क्षमितव्यमेव । क्रुद्धस्य तावद् ध्रुवं कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसाव्रतलोपः, क्रुद्धस्य चापवदतः नृतव्रतलोपः, विस्मृतप्रव्रज्याप्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयव्रतलोपः, द्वेषात्