________________
%
योगशास्त्रम्
योगगर्भ स्तुतिः
॥१६॥
करालयन् । उत्पपात जगतोनल इवार्णवे ॥८२॥ कुलक्षितिधरक्षोदक्षमस्यास्य प्रभावतः । ममज्जाजानु भगवानन्तर्वसुमतीतलम् ॥८३॥ एवम्भूतोऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ॥८४॥ कालचक्रहतोऽप्येष प्रपेदे पश्चतां न यत् । अगोचरस्तदत्राणमुपायः क इहापरः ॥८५।। अनुकूलैरुपसर्गः क्षुभ्येद्यदि कथचन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ॥८६॥ महर्षे तव तुष्टोऽस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च ॥८७|| पर्याप्तं तपसानेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शङ्कां यच्छामि किं तव ॥८८॥ इच्छामात्रेण पूर्य्यन्ते यत्र नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ॥८९॥ अनादिभवसंरूढकनेनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षे वा त्वां नयामि किम् ॥१०॥ अशेषमण्डलाधीशमौलिलालितशासनम् । अथवा चैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ॥९॥ इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभौ । अप्राप्तप्रतिवाक्पापः पुनरेवमचिन्तयत् ॥९२॥ मोघीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्येकं कामशासनम् ॥९३॥ यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः। दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥९४॥ इति निश्चित्य चित्तेन निर्दिदेश सुराङ्गनाः। तद्विभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ॥९५॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितः। कन्दर्पनाटकनटी वसन्तश्रीरशोभत ॥९६॥ मुखवासं सज्जयन्ती विकपनीपरेणुभिः । सैरन्ध्रोव दिग्वधूनां ग्रीष्मलक्ष्मीरजम्भत ॥९७॥ राज्याभिषेके कामस्य मङ्गल्यतिलकानिव । सर्वाङ्गं केतकव्याजात्कुर्वती प्रावृडाबभौ ॥९८॥ सहस्त्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोदामां पश्यन्ती शुशुभे शरत् ॥९९॥ जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः।
॥१६॥