________________
॥१५॥
वृद्धावशरणावावां त्यक्तावानन्दिवर्द्धनः ।त्रायस्वेति स्वरैर्दीनदीनैय॑लपतां च तौ ॥६५॥ (युग्मं) ततस्वयोर्विलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् ॥६६॥ तत्रानासाद्य दृषदं सूदः सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थालीमकल्पयत् ॥६७॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्त्तगिरेरिव दवानलः ॥६८|| तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पकणं दारुणकनन् ।६९॥ पकणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्गयोश्च क्षुद्रपक्षिपञ्जराणि व्यलम्बयत् ॥७०॥ खगैश्चञ्चनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा च्छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् ॥७१॥ तात्रप्यसारतां प्राप्ते पकणे पकपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ॥७२॥ अन्तरिक्षे माहावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेप दिक्षु च ग्रावकर्करान् ॥७३॥ सर्वतो रोदसीगर्भ भस्त्रापूरं च पूरयन् । उत्पाडयोत्पाटय वातोऽसौ भगवन्तमपातयत् ।७४॥ (युग्मं) तेनापि खरवातेनापूर्णकामो विनर्ममे । घुसत्कुलकलङ्कोऽसौ द्राकलं कलिकानिलम् ॥७५॥ भूभृतोऽपि भ्रमयितुमलङ्कर्माणविक्रमः। भ्रमयामास चक्रस्थमृत्पिण्डमिव स प्रभुम् ॥७६॥ भ्रम्यमाणोऽणवावर्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जही प्रभुः ॥७७|| वज्रसारमनस्कोऽयं बहुधाऽपि कदर्थितः । न क्षोभ्यते कथमहं भग्नागूर्यामि तां सभाम् ॥७८॥ तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥७९॥ अह्नाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥८॥ पृथिवी सम्पुटीकत्तुं कृतं मन्ये पुटान्तरम् । उत्पत्त्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः ॥८॥ ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः