________________
योगगर्म स्तुतिः
योगशास्त्रम् ॥१७॥
हेमन्तश्रोलिंलेखेव प्रत्यग्रैः कुन्दकुडमलैः ॥१००॥ गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ॥१॥ एवमुजृम्भमाणेषु सर्चतुषु समन्ततः। मीनध्वजपताकिन्य प्रादुरासन् सुराङ्गनाः॥२॥ सङ्गीतमविगीताङ्गयः पुरो भगवतस्ततः । ताः प्रचऋमिरे जैत्रं मन्त्रास्वमिव मान्मथम् ॥३॥ तत्राधिसूत्रितलयं गान्धारग्रामवन्धुरम् । काभिश्चिदुदगीयन्ते जातयः शुद्धवेसराः॥४॥ क्रमव्युत्क्रमगैस्तानैर्व्यक्तैर्व्यञ्जनधातुभिः । प्रवीणावादयद्वीणां काचित्सकलनिष्कलाम् ॥५॥ ३ फुटत्तकारधोङ्कारप्रकारैर्मेघनिस्वनान् काश्चिच्च वादयामामुर्मंदगांत्रिविधानपि ॥६॥ नभोभूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावनवनवैः काश्चिदप्यनरीनृतुः ॥७॥ दृढाङ्गहाराभिनयैः सद्यखुटितक०चुका । बनती श्लथधम्मिल्लं दोमूलं काप्यदीदृशत्।।८।दण्डपादाभिनयनच्छलात्कापि मुहुर्मुहुः। चारुगोरोचनागौरमूरूमूलमदर्शयत् ॥९॥ श्लथचण्डातकग्रन्थिदृढीकरणलीलया । कापि प्राकाशयद्वापीसनाभि नाभिमण्डलम् ॥१०॥ व्यपदिश्येभदन्ताख्यहस्तकाभिनयं मुहुः। गाढमङ्गपरिष्वङ्गसंज्ञां काचिच्च निर्ममे ॥११॥ सञ्चारयन्त्यन्तरीयं नीवीनिविडनच्छलात् । नितम्बबिम्बफलकं काचिदाविरभावयत् ॥१२॥ अङ्गभङ्गापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्चिरलोचना ॥१३॥ यदि त्वं वीतरागोऽसि रागं तनस्तनोषि किम् । शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ॥१४॥ दयालुर्यदि वासि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान त्रायसे कथम् ॥१५॥ उपेक्षसे कौनुकेन यदि नः प्रेमलालसाः किश्चिन्मानं हि तद्युक्तं मरणान्तं न युज्यते ॥१६।। स्वामिन् कठिनतां मुश्च पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे (१) तत्रातिसूत्रितलयम् (२) सुन्दरम् (३) स्फुटत्वक्पर० प्रत्यन्तरे
॥१७॥