________________
योग
चतुर्थ
शास्त्रम्
प्रकाशः
॥६२४॥
गोपसर्गेषु परिपालनम् , एवमादि वैयावृत्त्यम् । __ अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः। स पञ्चविधः वाचनम् , प्रच्छनम् , अनुप्रेक्षा, आम्नायः, धर्मोपदेशश्चेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छन ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितबलाधानाय वा परानुयोगः। अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः। आम्नायो घोषविशुद्ध परिवर्तनम् , गुणनम् , रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् । ___ अथ विनयः-विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः । स चतुर्धा, ज्ञान-दर्शन-चारित्रो-पचार भेदाव । तत्र सबहुमान ज्ञानग्रहणाभ्यासस्मरणादि ज्ञानविनयः । सामायिकादौ लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानिःशङ्कितत्वादिना दर्शनविनयः । चारित्रवतश्चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादि उपचारविनयः, परोक्षेष्वपि काय वाग्मनोभिरञ्जलिक्रियागुणसंकीर्तनानुस्मरणादिरुपचारविनयः । __ अथ व्युत्सर्गः-व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः । स द्विविधः-बाह्य आभ्यन्तरश्च । तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य, अनेषणीयस्य संसक्तस्य श्वाऽन्नपानादेर्वा त्यागः । आभ्यन्तरः कषायाणाम् , मृत्युकाले शरीरस्य च त्यागः । ननु व्युत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? सत्यम् , सोऽतिचारविशुद्धयर्थ उक्तः अयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् । (१) अन्नपात्रादेर्वा इति वा पाठः ।
॥६२४॥