________________
योगशाखम्
॥६२३॥
प्रमाददोषव्युदासभावप्रसादनैः शल्यानवस्थाव्यावृत्तिमर्यादात्यागसंयमदाढर्याराधनादिप्रायश्चित्तफलम् ।
अथ वैयावृत्त्यम्-व्यावृत्तो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरस्तस्य भावः कर्म वा वैयावृत्त्यम् । व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो बाह्यद्रव्यासम्भवे स्वकायेन तदानुकूल्यानुष्ठानं च । तच्चाचार्योंपाध्यायस्थविरतपस्विशैक्षग्लानसाधर्मिककुलगणसङ्घलक्षणविषयभेदेन दशधा । तत्र स्वयमाचरति परांश्चाचारयति, आचर्यते सेव्यत इति वाऽऽचार्यः । स पश्चधाप्रव्रजकाचार्यः, दिगाचार्यः, उद्देशकाचार्यः, समुद्देशानुज्ञाचार्यः, आम्नायार्थवाचकाचार्य इति । तत्र सामायिकवतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः । प्रथमत एव श्रतमुद्दिशति यः स उद्देशाचार्यः । उद्देष्टगुवभावे तदेव श्रुतं समुद्दिशत्यनुनानीते वा यः स समुद्देशानुज्ञाचार्यः । आम्नायमुत्सर्गापवादलक्षणमर्थ वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिष खाद्यनुज्ञायी आम्नायार्थवाचकः, आचारगोचरविषयं स्वाध्याय वा । आचार्याल्लब्धानुज्ञाः साधव उप समीपेड धीयतेऽस्मादित्युपाध्यायः । स्थविरो वृद्धः । स श्रुत-पर्याय-वयोभेदात् त्रिविधः । श्रुतस्थविरः समवायाङ्ग यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयः स्थविरः सप्तत्यादिवर्षजीवितः। विकृष्टं दशमादि किश्चिन्यूनषण्मासान्तं तपः कुर्वस्तपस्वी। अचिरप्रबजितः शिक्षाहः शैक्षः। रोगादिक्लिष्टशरीरो ग्लानः । साधर्मिकाः समानधर्मिणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चन्द्रादि । गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । कुलसमुदायो गणः कोटिकादिः। सङ्घः साधुसाध्वीश्रावक-श्राविकासमुदायः एषामाचार्यादीनाममपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भैषजक्रिया, कान्ताररो
॥६२३॥