________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥६२५।।
अथ शुभध्यानम्-शुभमातरौद्रविवेकेन शुभरूपं धर्म शुक्लरूप ध्यानम् अत्रातरौद्रध्याने उक्तपूर्वे, धर्म शुक्लं च शुभध्याने वक्ष्येते । इत्यनेन प्रकारेण पोढाऽऽभ्यन्तरं तपः इदं चाभ्यन्तरस्य कर्मणस्तापकत्वात , अभ्यन्तरैरेवान्तर्मुखैभगवद्भिर्जायमानत्वाच्चाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थः, यदाह-संवरविणिज्जराओ मोक्खस्स पहो तवा पहो ताति । ज्झाणं च पहाणंग तवस्स तो मोक्खहेऊ तं ॥१॥९॥ ___ अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाहदीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात्॥९१॥॥
तप एव वह्निः पापवनदाहकत्वात तपोवहिस्तस्मिन दीप्यमाने प्रबलीभते । किविशिष्टे ? बाह्येऽशनादौ, आभ्यन्तरे प्रायश्चित्तादौ सति । यमी संयमवान जरति भस्मसात् करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता । कर्माणि ज्ञानवरणीयादीनि दुर्जराण्यपि दुःखक्षयाण्यपि । निर्जराहेतुत्वं तपस उपलक्षणम् , संवरहेतुत्वादप्यस्य, यदाह वाचकमुख्यः--तपसा निर्जरा च तपसा निर्जरा संवरश्च भवतीत्यर्थः। तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम् , निर्जरणफलत्वाच्चिरन्तनकर्मनिर्जरकम् , तथा च निर्वाणप्रापकमिति । अत्रान्तरश्लोकाः
यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैनवैर्जलापूरैः पूर्यते नैव सर्वथा ॥१॥ तथैवाश्रवनिरोधेन कर्म (१) संवरविनिर्जरे मोक्षस्य पन्थास्तपः पन्थास्तयोः । ध्यानं च प्रधानाङ्गं तपसस्ततो मोक्षहेतुस्तत् ॥१॥
॥६२५॥