________________
चतुर्थ
योगशास्त्रम्
प्रकाशः
॥६२०॥
करिष्यामि' इति प्रत्याख्यानम् । मिश्रमालोचनप्रतिक्रमणरूपम् , प्रागालोचनं पश्चाद् गुरुसन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तान्नपानोपकरणशय्यादिविषयस्त्यागः । व्युत्सगोंऽनेषणीयादिषु त्यक्तेषु गमनागमनसावधस्वमदर्शननौसन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाडूमनोव्यापारत्यागः । तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित् तपसा विशुद्धिर्भवति तत् तद् देयमासेवनीयं च। छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत आरोपणम् । तथा अवस्थाप्यत इत्यवस्थाप्यस्तन्निषेधादनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणम् , तपः कर्म चास्योत्थाननिषदनादिकर्मकरणशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते-'आOः ! उत्थातुमिच्छामि' इत्यादि । ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति , यदाह
उहिज्ज निसीअज्ज व भिक्खं हिंडीज्ज मत्तगं पेहे । कुविअपिअबंधवस्स करेइ इयरो वि तुसिणीओ ॥१॥ एतावति तपसि कृते तस्योत्थापना क्रियते । (१) उत्तिष्ठ निषीद वा भिक्षां हिण्ड मात्र प्रक्षस्व । कुपितप्रियबान्धवस्य करोतीतरोऽपि तुष्णीकस्तु ॥१॥
॥६२०॥