________________
योग
शास्त्रम् ॥६२१॥
तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावात् अपराधानां वा पारमश्चति गच्छतीत्ये शीलं पाराचि तदेव पाराश्चिकम् । तच्च महत्यपराधे लिङ्गकुलगणसंवेभ्यो बहिष्करणम् ।
एतच्च छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्ववरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्व गुलः शल्यो देहदुधियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोध्धृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्य्यते । तृतीये तु दूरतरगतशल्ये शल्योद्धारमलनकरणमलपूरणानि क्रियन्ते । चतुर्थे तु शल्यकर्षणमर्दनरुधिरगालनानि वेदनापहारार्थं क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणं, ततो गमनादिचेष्टा निवार्य्यते । षष्ठे हितमितभोज्यभोजनोऽभोजनो वा शल्योद्धारानन्तरं भवति । सप्तमे तु शल्योद्धारानन्तरं यावच्छल्येन मांसादिदुषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मीके वा पूर्वोक्तक्रियाभिरनुपशमाद् विसर्पति, अङ्गच्छेदः सहास्थ्ना शेषरक्षणार्थं विधीयते । एवं द्रव्यवणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्र पुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः यदाहुर्भगवद्भद्रबाहुस्वामिपादाः, -
तणुओ अतिक्खतुंडो असोणिओ केवलं तयालग्गो । उद्धरिउ अवउज्झइ सल्लो न मलिज्जइ वणो उ ॥१॥ लग्गुद्धियम्मि बीए मलिज्जइ परं अदुरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगम्मि ||२|| (१) तनुकोऽतीक्ष्णतुण्डोऽशोणितः केवलं त्वग्लग्नः । उध्धृत्यापत्यज्यते शल्यो न मृद्यते व्रणस्तु ॥१॥ (२) लग्नोध्धृते द्वितीये मृद्यते परमदूरगे शल्ये । उद्धरणमलनपूरणानि दूरतरगते तृतीयके ॥२॥
EXOXO FORE
चतुर्थ
प्रकाशः
॥६२१ ॥