________________
चतण
योगशास्त्रम्
प्रकाशा
॥६१९॥
बाह्यात तपस सङ्गत्याग-शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति। ८९॥
आभ्यन्तरं तप आहप्रायश्चित्तं वेयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं पोढेत्याभ्यन्तरं तपः॥९०॥
मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारो निश्चितं मलिनयतीति तच्छुद्धयर्थ प्रायश्चित्तम्-प्रकर्षण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकस्तेन विचिन्त्यते स्मर्य्यतेऽतिचारविशुद्धयर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठान विशेषः । अथवा प्रायो बाहुल्येन व्रतातिक्रम चेतसि सञ्जानीते चेतश्च न पुनराचरतीत्यतः प्रायश्चित्तम् । अथवा प्रायोऽपराध उच्यते स येन चेतति विशुध्यति तत् प्रायश्चित्तम् । भीमसेनात् पूर्व आचार्य्याश्चितै (ती) धातु विशुद्धावपि पठन्ति, यदाहु:-'चिती संज्ञानविशुद्धयो ।।
प्रायश्चित्तं च दशविधम्-आलोचनम् , प्रतिक्रमणम् , मिश्रम् , विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम् , अनवस्थाप्यता. पाराश्चिकमिति ।
तत्रालोचनं गुरो पुरतः स्वापराधस्य प्रकटनम् । तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च । आसेवनानुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतार्थस्य शिष्यस्य भवति । स हि पञ्चक-दशक पञ्चदशकक्रमेण प्रायश्चित्तानि गुरुलध्वपराधानुरूपाणि विज्ञाय योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च ।
अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणं मिथ्यादुष्कृतसंयुक्तेन पश्चात्तापेन 'पुनरेवं न
१६१९॥