________________
योगशास्त्रम्
॥६१८||
बहूनि स्थानानि जायन्ते । सर्वाणि चामून्यौनोदयविशेषाः । योषितस्तु अष्टाविंशतिकवलाहारप्रमाणम्, यदाह, खलु कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् ।
१
तथा वर्ततेऽनयेति वृत्तिभैक्ष्यम्, तस्याः संक्षेपणं ह्रासः । तच्च दत्तिपरिमाणरूपम् । एकद्वित्र्याद्यगारनियमो रथ्याग्रामार्धग्रामनियमश्च । अत्रैव द्रव्य – क्षेत्र — काल - भावाभिग्रहा अन्तर्भूताः ।
"
तथा रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनाम् अत एव विकृतिशब्दवाच्यानां मद्यमांसमधुवनीतानां दुग्ध - दधि घृत-तैल- गुडावग्राह्यादीनां च त्यागो वर्जनं रसत्यागः ।
तथा तनुः कायस्तस्याः क्लेशः शास्त्राविरोधेन बाधनं तनुक्लेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ? उच्यते – शरीर - शरीरिणोः क्षीरनीरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टासनकरणेनाप्रतिकर्मशरीरत्वकेशोल्लुश्ञ्चनादिना चावसेयः । ननु परषहेभ्यः कोऽस्य विशेषः ? उच्यते स्वकृतक्लेशानुभवरूपस्तनुक्लेशः, परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः ।
तथा लीनता विविक्तशय्यासनता । सा चैकान्तेनावाधेऽसंसक्ते स्त्रीपशुपण्डकविवर्जिते शून्यागार देवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं मनोवाक्कायकषायेन्द्रियसंवृतता च । इति षट्प्रकारं बहिस्तपो बाह्य तपः । बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात् कुतीर्थिकैगृहस्थैश्व कार्य्यत्वाच्च । भस्मात् षड्विधादपि (१) द्वात्रिंशत् खलु कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कबलाः
चतुर्थ
प्रकाशः
વા