________________
योगशास्त्रम्
॥६१७॥
P005502952OOK
निफाइआ य सीसा गच्छो परिपालिओ महाभागो । अन्भुञ्जिओ बिहारो अहवा अन्भुज्जयं मरणं ॥ १ ॥ इति दशावयः परिणामे सति त्रस — स्थावर विरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्वध्यानव्यापृतान्तःकरणस्य प्राणोत्क्रान्ति यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषस्तदुद्विशिष्टमनशनमिङ्गिनी । अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यानभ्छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यगृध्यानपरायणः प्राणान् जहाति । इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरो पकरणममत्वस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्ग्राहितनमस्कारः समीपवर्त्तिसाधुदत्तनमस्कारो वोर्तन - परिवर्तनादि कुर्वाणः समाधिना कालं करोति, तस्य भक्तप्रत्याख्यानमनशनम् ।
अथौनोदर्यम् — ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव औनोदर्य्यम् । तच्च चतुर्धा - अल्पाहारौनोदर्थ्यम्, उपाधानोदयम्, अर्धी नोदर्य्यम् प्रमाणप्राप्तात् किञ्चिदूनौनोद च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः । कबलश्चोत्कृष्टापकृष्टौ वर्जयित्वा मध्यम इह गृह्यते । सा चा विकृतस्वमुखविवरप्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽ ल्पाहारौनोदर्य्यम् । अर्धस्य समीपमुपाधं द्वादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो द्वादश कवला उपाधानोदर्य्यम् । षोडश कवला अनोदर्थ्यम् । प्रमाणप्राप्त आहारो द्वात्रिंशत् कवलाः, स चैका दिकवलैरूनश्चतुर्विंशतिकवान् यावत् प्रमाणप्राप्तात् किञ्चिदूनौनोदयम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन (१) निष्पादिताश्च शिष्या गच्छः परिपालितो महाभागः । अभ्युद्यतो विहारोऽथवाऽभ्युद्यतं मरणम् ॥ १॥
चतुर्थ
प्रकाशः
॥६१७॥