________________
योग
शास्त्रम्
॥६१६।।
MOOREE KHOOREETO OKSE
अथ कामनिर्जराया हेतुं स्पष्टदृष्टान्तेनाह-
सदोषमपि दीप्तेन सुवर्णं वह्निना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ॥ ८८ ॥ ॥ सदोषमपि किट्टिकादिदोषयुक्तमपि सुवणं दीप्तेन वह्निना तप्यमानं यथा विशुद्धयति तथा जीवोऽप्यसवेद्या दिकर्मदोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात्, यदाहरसरुधिरमांसमेदोऽस्थिमज्जाशुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम् ॥१॥ तच्च निर्जराहेतुः, यदाह-
यद्वद् विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१॥८८॥ तच्च बाह्याभ्यन्तरभेदेन द्विविधम् तत्र वाद्यं तपस्तावद् भेदेनाहअनशनमौनोदर्यं वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ॥ ८९ ॥
अशनमाहारस्तत्परित्यागोऽनशनम् । तद् द्विधा - इत्वरं यावज्जीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्महावीरतीर्थे षण्मासपर्यन्तम्, श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम्, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावज्जीविकं तु पादपोपगमनेङ्गिनी भक्तप्रत्याख्यानभेदात् त्रिविधम् । तत्र पादपोपगमनं द्विधा - सव्याघातमव्या घातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पल महावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु-
चतुर्थ
प्रकाशः
॥६१६॥