________________
योगशास्त्रम्
यतथ
प्रकाश
॥६१३॥
इदानीं योगप्रमादाविरतीनां प्रतिपक्षानाहतिसृभिर्गुप्तिभियोगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥८॥
गुप्तिभिर्मनोवाक्कायरक्षणलक्षणाभिः, तिमभिरिति तासां संख्यावचनम् , योगान् मनोवाक्कायव्यापारलक्षणान् , प्रमादं मद्यविषयकषायनिद्राविकथालक्षणं पञ्चविधम् , अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशधर्मानादरयोगदष्प्राणिधानरूपतयाऽष्टविधं वाऽप्रमादेन तत्प्रतिक्षभूतेन साधयेत् , सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाविरतिमनियमं साधयेत् ॥८४॥
इदानीं मिथ्यात्वार्तरौद्रध्यानानां प्रतिपक्षानाहसद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतातरौद्रे च संवरार्थं कृतोद्यमः ॥८५॥
सदर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्मशुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनार्तरौद्रध्याने विजयेत, संवरार्थ संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी । अत्रान्तरश्लोकाः
यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥१॥ प्रविष्टं स्नेहयो गाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥२॥ यथा वा सरसि क्वापि सर्वैारे विशेज्जलम् । तेषु तु प्रतिरुद्धेषु प्रविशेद् न मनागपि ॥३॥ यथा वा यानपात्रस्य मध्ये रन्धेविशेज्जलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत् ॥४॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धषु सर्वतः । कर्मद्रव्यप्रवेशो न
HE