________________
चतुर्थ
योगशास्त्रम्
प्रकाश
॥६१४॥
जीवे संवरशालिनि ॥५॥ संवरादाश्रवद्वारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः॥६॥ गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंवरः ॥७॥ तथा देशविरत्यादौ स्यादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥८॥ प्रशान्तक्षीणमोहादौ भवेत् कषायसंवरः । अयोगाख्यकेवलिनि सम्पू) योगसंवरः ॥९॥
एवमाश्रवनिरोधकारण संवरः प्रकटितः प्रपश्रतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥१०॥ संवरभावना ॥८॥८५॥ __अथ निर्जराभावनामाह| संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेषा सकामा कामवर्जिता॥८६॥
जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशाटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा-सह कामेन 'निर्जरा मे भूयात्' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् , यदाहुः, "-नो इहलोगट्टयाए तवमहिहिज्जा, नो परलोगट्टयाए तवमहिहिज्जा, नो कित्तिवण्णसद्दसिलोगहयाए तवमहिहिज्जा नण्णत्थ निज्जरयाए तवमहिहिज्जा" इत्येका निर्जरा । द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जिता । अत्र चकारमन्तरेणापि समुच्चयो गम्यते, इति चकारो नोक्तः, यथा
(१) ना इहलोकार्थ तपोऽधितिष्ठेत् , नो परलोकार्थ तपोऽधितिष्ठेत् । नो कीर्तिवर्णशब्दश्लोकार्थ तपोऽधितिष्ठेत् , नान्यत्र निर्जरार्थात् तपोऽधितिष्ठेत् ।
॥६१४॥