________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥१२॥
| यः कर्मपुद्गलादानच्छेदः स द्रव्यमंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८० ॥ ____ कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनं तस्य यच्छिद्यतेऽनेनेति च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः । भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्त्याग इति ॥८॥
इदानीं कषाया विषया योगा इत्यादिनाऽभिहितानामशुभकर्महेतूनां प्रतिपक्षभूतानुपायान् स्तौतियेन येन ह्युपायेन रुध्यते यो य आश्रवः। तस्य तस्य निरोधाय स स योज्यो मनीषिभिः८१ ___ स्पष्टः॥ ८१ ॥ उपायानाहक्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ___ क्षमया प्रतिपक्षभूतया क्रोधम् , मृदुभावेन मानम् , ऋजुत्वेन मायाम्, अनीहया लोभ निरुन्ध्यात् संवरार्थ कृतोद्यम इति चतुर्थश्लोकपदेन योगः।। ८२ ॥
कषायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाह-- असंयमकृतोत्सेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥३॥
असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्य येषां तान विषयान् स्पर्शादीन् , किविशिटान ! विषसंनिभान आपातरम्यत्वेन परिणामदारुणत्वेन च विषतुल्यान्, निराकुर्याद निवारयेत् केन ? संयमेनेन्द्रियजयेन । किविशिष्टेन ? अखण्डेनाप्रतिहतेन ॥ ८३ ।।
॥६१२॥