________________
Is चतुर्थ
पोगशास्त्रम्
प्रकाशा
॥६११॥
॥४२॥ आवश्यके व्रतशीलेष्वप्रमादो विनीतता। ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्त्यानं प्रभावना ॥ ४३ ॥ संघे समाधिजननं वैयावृत्त्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥ ४४ ॥ आधन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः! एको द्वौ वा त्रयः सर्वे चान्यैः स्पृष्टा जिनेश्वरैः ॥४५॥ परस्य निन्दावज्ञोपडासाः सद्गुणलोपनम् । सदसदोषकथनमात्मनस्तु प्रशंसनम् ॥४६॥ सदसदगुणशंसा च सदोषाच्छादनं तथा । जात्यादिभिर्मदश्चति नीचैर्गोत्राश्रवा अमी ॥४७॥ नीचैर्गोत्राश्रवविपर्यासो विगतगर्वता । वाक्कायचित्तविनय उच्चैर्गोत्राश्रवा अमी ॥४८॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयोः। सव्याजाव्याजविघ्नोऽन्तरायकर्मण आश्रवाः॥४९॥ प्रस्तावतः खलु शुभाश्रव एष उक्तो, वैराग्यकारणमसौ न तु देभाजाम् । ज्ञात्वा तदेवमशुभाश्रव एव भाव्यो भव्यैर्जनैः सपदि निर्ममतानिमित्तम् ॥५०॥ आश्रवभावना ॥ ७॥७८|| ___ अथ संवरभावनामाह-- सर्वेषामोश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ॥७९॥
सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवर उक्तः संवियतेऽनेनेति कृत्वा । स चायोगिकेवलिनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एकद्विच्याद्याखवनिरोधस्तु सामर्थ्याद् देशसंवरः। स चायोगिकेवलिनः प्राग्गुणस्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येक द्रव्यभावभेदेन द्विविधः ॥७९।।
द्वैविध्यमेवाह--