________________
योग
शास्त्रम्
६१०
अवशेन्द्रियता चेति नारकायुष आश्रवाः ॥ २४ ॥ उन्मार्गदेशना मार्गप्रणाशो मूढचित्तता । आर्तध्यानं सशल्यत्वं मायारम्भपरिग्रह ||२५|| शीलवते सातिचारे नीलकापोतलेश्यता । अप्रत्याख्यानाः कषायास्तिर्यगायुष आश्रवाः ॥२६॥ अल्पौ परिग्रहारम्भौ सहजे मार्दवार्जवे । कापोतपीत लेश्यत्वं धर्मध्यानानुरागिता || २७ ॥ प्रत्याख्यान कषायत्वं परिणामश्च मध्यमः । संविभाग विधायित्वं देवतागुरुपूजनम् ॥ २८ ॥ पूर्वालापप्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ २९ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ||३०|| पात्रे दानं तपःश्रद्धा रत्नत्रय्या विराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ॥३१॥ बालतपोऽग्नितोयादिसाधनोल्लम्बनानि च । अव्यक्तसामायिकता देवस्यायुष आश्रवाः ||३२|| मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशून्यं चलचित्तता ||३३|| सुवर्णादिप्रतिच्छन्दकरणं कूटसा क्षित्ता । वर्णगन्धरसस्पर्शाद्यन्यथापादनानि च ॥ ३४ ॥ अङ्गोपाङ्गच्यावनानि यन्त्रपञ्जरकर्म्म च । कूटमानतुलाकर्मान्यनिन्दात्मप्रशंसनम् ||३५|| हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः परुषासभ्यवचनं शुचिवेषादिना मदः ॥ ३६ ॥ मौखर्याक्रोशौ सौभाग्योपघातः कार्मणक्रिया । परकौतूहलोत्पादः परिहासविडम्बना || ३७ || वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता ॥ ३८ ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् | अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवाः || ३९ ॥ एते एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पण क्षान्त्यादयोऽपि च ॥ ४० ॥ दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया । आश्रवाः शुभनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः ॥४१॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु
चतुर्थ प्रकाशः
॥६१०॥