________________
पोग शास्त्रम्
चतुर्थ
६०९॥
प्रकाशा
॥५॥ वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता ॥ ६ ॥ सर्वज्ञसिद्धदेवापदवो धार्मिकदूषणम् । उन्मार्गदेशनाऽनर्थाग्रहोऽसंयतपूजनम् ॥ ७ ॥ असमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥८॥ कपायोदयतस्तीवः परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ॥९॥ उत्प्रासनं सकन्दर्पोपहासो हासशीलता। बहुप्रलापो दैन्योक्तिर्दासस्यामी स्युराश्रवाः ॥१०॥ देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जन चेत्याश्रवाः कीर्तिता रतेः ॥ ११ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चारतेराश्रवा अमी ॥ १२ ॥ स्वयं भयपरिणामः परेषामथ भापनम् त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥१३॥ परशोकाविष्करण स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः ॥१४॥ चतुर्वर्णस्य सङ्घस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ॥१५।। ईर्ष्याविषयगाद्धर्थे च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ १६ ॥ स्वदारमात्रसन्तोषोऽना मन्दकषायता । अवक्राचारशीलत्वं पुवेदस्याश्रवा इति ॥ १७॥ स्त्रीपु सानङ्गसेवोग्राः कषायास्तीवकामता । पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥१८॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधुमांसविरतानामविरत्यभिवर्णनम् ॥ १९॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदुषणम् ॥२०॥ कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनाश्रवा अमी ॥२१॥ पञ्चन्द्रियप्राणिवधो बहारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ २२॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकापोताश्च लेश्या अनृतभाषणम् ॥२३॥ परद्रव्यापहरणं मुहुर्मैथुनसेवनम् ।
॥६०९॥