________________
योगशास्त्रम्
likol
नपुंसक वेदलक्षणा नव कषायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाक्कायकर्मलक्षणाः, प्रमादोऽज्ञान- संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर--योग दुष्प्रणिधानभेदैरष्टधा, अविरतिर्नियमाभावः, मिथ्यात्वं मिथ्यादर्शनम्, आर्त्त-राद्रे ध्यानभेदायुक्तपूर्वी, इत्येतेऽशुभं कर्म प्रति हेतवः । नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यद् वाचकमुख्याः - "मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः" इति तत् किमाश्रवभावनायां बन्ध हेतूनामेतेषामभिधानम् ? सत्यम्, आश्रवभावनेव बन्धभावनापि न महद्भिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात् । आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह - सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः इति । ततश्च बन्धाश्रवयोर्भेदो न विवक्षितः । ननु कर्मपुद्गलैः सह क्षीर नीरन्यायेनात्मनःः संबन्धो बन्ध उच्यते, तत् कथमाश्रव एव बन्धः ? युक्तमेतत्, तथाप्याश्रवेणानुपात्तानां कर्म पुद्गलानां कथं बन्धः स्यात् ? । इत्यतोऽपि कर्मपुद्गलादानहेतावाश्रवे बन्धहेतूनामभिधानमदुष्टम् ननु तथापि बन्धहेतूनां पाठो निरर्थकः । नैवम्, बन्धाश्रवयोरेकत्वेनोक्तत्वात्, आश्रवहेतूनामेवायं पाठ इति सर्वमवदातम् । अत्रान्तरश्लोकाः
यः कर्म पुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चष्टधा ज्ञानावरणीयादिभेदतः ||१|| ज्ञानदर्शनयोस्तद्वत् तद्धेतूनां च ये किल । विघ्ननिह्नवपैशून्याशातनाघातमत्सराः ||२|| ते ज्ञानदर्शनाचारकर्महेतव आश्रवाः । देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ||३|| सरागसंयमो देशसयमोऽकामनिर्जरा । शौचं बालतपश्चेति सवेद्यस्य स्युराश्रवाः ||४|| दुःखशोकवधास्तापाक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः
चतुर्थ
प्रकाशः
६०॥