________________
योग
शास्त्रम्
६०७।।
क्रोधादयो, विषिण्वन्ति बध्नन्ति संसारिणं काम्यमानाः सन्त इन्द्रियार्थाः स्पर्शादयो विषयाः, कषायाश्च विषयाश्च तैराक्रान्तं वशीकृतं वितनोति करोत्युशुभमसद्वेद्यादि कर्म ॥७५॥ तथा
शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्ज्ञेयमशुभार्जनहेतवे ॥७६॥
निर्मिध्यमवितथम्, तच्च जैनमेव वचनं भवतीत्याह - श्रुतज्ञानाश्रितं वचः श्रुतज्ञानं द्वादशाङ्गं गणिपिटकं तदाश्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोध चाशुभस्य कर्मणोऽर्जनाय ॥७६॥ तथा
शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥७७॥
शरीरेण कायेन सुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्रेष्टेन शरीरी जन्तुविनुते करोति शुभं सद्यादि कर्म । सततारम्भिणा पुनर्महारम्भिणा अत एव जन्तुघातकेन प्राणिव्यापादकेनाशुभं कर्मासद्वेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद न कार्यकारणभावविरोधः ॥७७॥
शुभयोगानां शुभफल हेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरणे त्वशुभयोगानामशुभफल हेतुत्वं वैराग्योत्पादनाय प्रतिपादनीयम्, इत्युक्तानुक्तानहेतून्संगृह्णाति —
कषायाविषया योगाः प्रमादाविरती तथा । मिथ्यात्वमार्तराद्रे चैत्यशुभं प्रतिहेतवः ॥७८॥ कषायाः क्रोध-मान-माया-लोभलक्षणाः, नोकपायाथ कपायसहचरिता हास्यरस्यरतिभयशोकजुगुप्सापुंस्त्री
प्रकाशः
॥६७॥