SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थ प्रकाश ॥६०६॥ कायः शरीरमात्मनो निवासस्तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः। ते चामी त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवात्मनो वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते यदाहः योगो वीरिअं थामो उच्छाह परिक्कमो तहा चेट्टा । सत्ती सामत्थं चिअ जोगस्स हवंति पज्जाया ॥१॥ एते च स्थविरस्य दुर्बलस्य वा आलम्बनयष्टयादिवज्जीवस्योपग्राहकाः तत्र मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, कायोयोग्यपुद्गलात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः। एते योगाः, यस्मात् शुभं सद्वेद्यादि, अशुभमसवेद्यादि कर्माश्रवन्ति प्रसुवते, तेन कारणेनाश्रया इति कीर्तिताः, आश्रयते कमभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम् , स्वातन्त्र्यविवक्षणात । यथा असिश्छिनत्ति इति ॥७४।। ___'योगाः कर्म शुभाशुभामाश्रवन्ति' इत्युक्तम् , कार्याणां च कारणानुकारित्वं दृष्टम् , इति शुभानां शुभकर्म। हेतुत्वम् , अशुभानामशुभकर्महेतुत्वं च विवेकेन दर्शयति-- | मैत्र्यादिवासितं चेतः कर्म सूते शूभात्मकम् । कषायविषयोकान्तं वितनोत्यशुभं पुनः ॥७५॥ मैत्रीमुदिताकरुणोपेक्षालक्षणाभिश्चतसृभिर्भावनाभिर्वासितं भावितं चेतो मनः कर्त, शुभात्मकं पुण्यात्मकं कर्म सूते । तच्च सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्रलक्षणम् । तदेव मनः, कषायाः (१) योगो वीर्य स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः ॥शा ६०६॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy