________________
योग
शास्त्रम्
।।६०५॥
शुक्रशोणितसम्भूतो मलनिः स्यन्दवर्धितः । गर्भे जरायुसंच्छन्नः शुचिः कायः कथं भवेत् ? || १ || मातृजsurनपानोत्थरसं नाडीक्रमागतम् । पायं पायें विवृद्धः सन् शौच मन्येत कस्तनौ ? ||२|| दोषधातुमलाकीणं कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ||३|| सुस्वादुन्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्टायै तच्छशरीरं कथं शुचि ? || ४ || विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु क्व शौचं तत्र वर्ष्मणि ? ||५|| जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धे यत्र तत् किं वपुः शुचि ? ||६|| स्वतः सुगन्धयो गन्धधूपपुष्पस्त्रगादयः यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ? ||७|| अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां काय: शुण्डाघट इवाशुचिः ||८|| मृज्जलानलवातांशुस्नानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥९॥ शरीरकस्यैवमशौच भावनां, मदाभिमानस्मरसाददायिनीम् ।
विभावयन् निर्ममतामहाभरं, वोदु' दृढः स्याद् बहुनोदितेन किम् ? ॥१०॥ अशौच भावना || ६ || ७३ ॥ अथाश्रवभावनामाहमनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥ ७४ ॥
मनश्च वाक् च कायश्च मनोवाक्कायास्तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते तत्रात्मना शरीरवता सर्वप्र देशैर्गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यपुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाकरणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रियादीनाम् ।
चतुर्थ
प्रकाशः
। ६०५ ॥