________________
र
चतुर्थ
योगशास्त्रम्
प्रकासः
६०४॥
हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥९॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निबध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुवितथभावनावर्जनाद, भजेत ममताच्छिदे सततमन्यत्व भावनाम् ॥१०॥
॥ अन्यत्वभावना ५॥ ७१ ।। अथाशुचित्वभावनामाहरसासृग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः?।७२
रसो भुक्तपीतानपानपरिणामजो निस्यन्दः, असृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम् , अस्थि कीकसं मेदसम्भवम्, मज्जासारोऽस्थिसम्भवः शुक्र रेतो मज्जासम्भवम्, अन्त्रं पुरीतत्, वर्षों विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः। तत् तस्मात् तस्यःकायस्य कथंशुचित्वम् ? न कथ श्चिदित्यर्थः।।७२।। _ ये त्वत्रापि शुचित्वमानिनस्तानुपालभते-- नवस्त्रोतःसवद्विसरसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् ॥७३॥
नवभ्यो नेत्रश्रोत्रनासामुखपायपस्थेभ्यः खोतोभ्यो निर्गमद्वारेभ्यः खवन क्षरन् विखमामगन्धिर्योऽसौ रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् । अत्रान्तरश्लोकाः
॥६०४॥