________________
योग
शास्त्रम्
॥१०३॥
दुर्वचं न दुर्भणम् । केषाम् ? धनवन्धुसहायानां धनानां धनधान्यादिभेदैर्नवविधानाम्, बन्धूनां मातृपितृपुत्रादीनाम्, सहायानां सुहृत् - सेवक - पत्त्यादीनाम् । अयमर्थः- यो जीवात् शरीरस्योपपत्त्या भेदं ग्राहितः स धनादिभ्यो भैदं ग्राहयितुं सुशक एवेति ॥ ७० ॥
न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम्, किन्तु तत्फलान्तरमप्यस्ति, तदेवाह - यो देहधनबन्धुभ्यो भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य हन्तातङ्कः प्रतन्यते ॥ ७१ ॥
यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितु:-क्व, नैवेत्यर्थः शोकशङ्गकुना शोकशल्येन, हन्तेति हर्षार्थमव्ययम्, आतङ्कः पीडा प्रतन्यते क्रियते । अत्रान्तरश्लोकाः
इान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ॥ १ ॥ देहाद्या इन्द्रिह्या आत्मानुभवगोचरः । तदेतेषामनन्यत्वं कथं नामोपपद्यते ॥ २ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीडयते ||३|| सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारा - दावात्मपीडोपजायते ||४|| ये तु देहात्मनोर्भेदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपीडयते ॥ ५ ॥ तथाहि लोहचक्रेण क्षैरेयीपचनेन च । देहबाधेऽप्यवाधात्मा तद्भेदज्ञोऽन्तिमो जिनः ॥ ६ ॥ नमिर्धनात्मभेदज्ञः पूर्दाऽपीन्द्रमत्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दाते ||७|| भेद विद्वान् न पीडयेत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ||८|| अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव
चतुर्थ
प्रकाशः
६०३