________________
योगशास्त्रम्
||६०२॥
मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥ २ ॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् संफेटमिलितः कथम् १ || ३ || धर्माधर्मौ समासन्नौ सहायाविति चेद मनिः । नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४ ॥ तस्मादेको बम्भ्रमीति भवे कुर्वन् शुभाशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥५॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः॥६॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुक्ते तद् न सहायोऽस्ति कश्चन ॥ ७ ॥ यथैकैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ॥ ८ ॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ || ९ || एकः पापात् पतति नस्के याति पुण्यात् स्वरेकः पुण्यापुण्यप्रचयविगमाद् मोक्षमेकः प्रयाति ।
एवं ज्ञात्वा चिरमवितथां निर्ममत्वस्य हेतो - रेकत्वाख्यामवहितधियो भावनां भावयन्तु ॥ १० ॥ ॥ एकत्वभावना ४ ॥ ६९ ॥
अथान्यत्वभावनामाह-
यत्रान्यत्वं शरोरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥७०॥ यत्रेति प्रक्रमार्थमव्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्माद् भेदः ? शरीरिण आत्मनः सकाशात् । कुतो हेतोः ? वैसदृश्यात् । प्रतीतमेव हि वैसदृश्य शरीरशरीरिणोर्मूर्तत्वामूर्तत्वाभ्याम्, अचेतनत्वचेतनत्वाभ्याम्, अनित्यत्वनित्यत्वाभ्याम्, भवान्तरेष्वगमनगमनाभ्यां च । तत्रेति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न
चतुर्थ प्रकाशः
॥ ६०२ ॥