________________
योगशास्त्रम्
युगयोगवत् । लब्धं कथञ्चिद् मानुष्यं हा! रत्नमिव हार्यते ॥५९।। लब्धे मानुष्यके स्वर्ग-मोक्षप्राप्तिनिबन्धने । हा ! नरकाप्त्युपायेषु कर्मसूत्तिष्ठते जनः ॥६०॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्त मनुष्यत्वं पापैः पापेषु योज्यते ॥६॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि। तत्प्रपञ्चः प्रपञ्चेन
चतुर्थ प्रकाशा
मममुपवयेते ? भन्यादिहतबुद्धिषु ।
शोचन्ति मुनि
शोकामर्षविपादेया॑दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥६३॥ दृष्ट्वा परस्य महतीं श्रियं प्राम्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ॥६४॥ विराद्धा बलिनान्येन प्रतिकर्तु तमक्षमाः। तीक्ष्णेनामर्षशल्येन दोद्यन्ते निरन्तरम् ॥६५॥ न कृतं सुकृतं किश्चिदाभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥६६॥ दृष्ट्वान्येषां विमानस्त्रीरत्नोपवनसम्पदम् । यावज्जीवं विपच्यन्ते ज्वलदानलोमिभिः ॥६७॥ हा प्राणेश ! प्रभो! देव ! प्रसीदेति सगद्गदम् । परैर्मुषितसर्वस्वा भाषन्ते दीनवृत्तयः ॥६८॥ प्राप्तेऽपि पुण्यतः स्वर्गे कामक्रोधभयातुराः। न स्वस्थतामश्नुवते सुराः कान्दपिकादयः ॥६९।। अथ च्यवनचिह्नानि दृष्ट्वा दृष्ट्वा विमृश्य च । विलीयन्तेऽथ जल्पन्ति कनिलीयामहे वयम् ? ॥७॥
तथाहि
अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः । म्लानीभवन्ति देवानां वदनाम्भोरुहै। समम् ॥७१॥ हृदयेन समं विष्वर विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते कल्पपादपाः ॥७२॥ अकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्रीडोभ्यां परिमुच्यन्ते कृतागस इवामराः ॥७३॥ अम्बरश्रीरपमला मलिनीभवति
॥५९९॥