________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥५९८॥
तिरश्चां सर्वतो भयम् । कियद वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥४२॥ __ मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ ४३ ॥ उत्पन्ना आर्यदेशेऽपि चण्डालश्वपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥४४॥ आर्यवंशसमुद्भूता अप्यनार्यविचेष्टिताः । दुःखदारिद्रयदौर्भाग्यनिर्दग्धा दुःखमासते ॥ ४५ ॥ परसम्पत्प्रकर्षणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुखं जीवन्ति मानवाः॥ ४६॥ रुग्जरामरणैस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भवासो यथा घोरनरके वाससन्निभः ॥४८॥ सूचिभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः ॥४९॥ योनियन्त्राद् विनिष्क्रामन् यद दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥५०॥ बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितैः । वार्धक्ये श्वासकासाथैजनो जातु न लज्जते ॥५१॥ पुरीषशूकरः पूर्व ततो मदनगर्दभः जराजरगवः पश्चात् कदापि न पुमान् पुमान् ॥५२॥ स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूखों नान्तर्मुखः कचित् ॥५३॥ सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः क्षपयत्यफलं जन्म धनाशाविहलो जनः ॥ ५४ ॥ कचिच्चौर्य कचिद् इतं कचिद् नीचैर्भुजङ्गता। मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् ॥५५।। सुखित्वे कामललितैर्दुःखित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनर्द्धर्मकर्मभिः ॥५६॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ॥५७।। ज्ञानदर्शनचारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥ संसारसागरगतैः शमिला