________________
योग
शास्त्रम्
॥५९७॥
वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः । छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥ २५ ॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तृभिः ॥ २६ ॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः । क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ २७ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ||२८|| द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः । चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ २९ ॥ शङ्कादयो निखन्यन्ते निकृष्यन्ते जलौकसः । गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥ ३० ॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदीमत्कुणादयः । विमृज्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ||३१|| पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाधा मध्यन्ते चासनादिभिः ॥ ३२ ॥ चतुरिन्द्रियताभाजः सरघाभ्रमरादयः । मधुमक्षैर्विराध्यन्ते यष्टिलोष्टादिताडनैः ||३३|| ताड्यन्ते तालवृन्ताद्यैर्द्राग् दंशमशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिकामर्कटादयः || ३४ ॥ पञ्चेन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च वकादिभिः ॥ ३५ ॥ उत्कीलयन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसार्थिभिः || ३६ || स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मायन्ते मांसकाङ्क्षिभिः ||३७|| मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८ ॥ क्षुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कुशप्रतोदैश्च वेदनां प्रसहन्त्यमी ||३९|| खेचरास्तित्तिरशुक कपोतचटकादयः । श्येनसिश्चानगृधाद्यैर्ग्रस्यन्ते मांसगृध्नुभिः ॥ ४० ॥ मांसलुब्धैः शाकुनिकैर्नानोपायप्रपञ्चतः । संगृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥ ४१ ॥ जलाग्निशस्त्रादिभवं
Osteoto hot dohor
चतुर्थ
प्रकाशः
॥५९७॥