________________
चेतथ
योगशास्त्रम्
प्रकाशा
॥५९६॥
पुसीसकवाहिनीम् । नदी वैतरणी नामातवार्यन्ते वराककाः ॥८॥ छायाभिकाङ्क्षिणः क्षिप्रमसिपत्रवनं गताः । 111) । पत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥९॥ आश्लोष्यन्ते च शाल्मल्यो वन्नकण्टकसङ्कटाः । तप्तायःपुत्रिकाः कापि स्मारितान्यवधरतम् ॥१०॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमगजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं अपु ॥११॥ भ्राष्ट्रकन्दुमहाशूलकुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥१२॥ छिन्नभिन्नशरीराणां पुनर्मिलितवर्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते वककङ्कादिपक्षिभिः ॥१३॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रयस्त्रिंशसागरम् ॥१४॥
तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यकेन्द्रियादिताम् । तत्रापि पृथिवीकायरूपतां समुपागताः ॥१५॥ हलादिशः पाटयन्ते मृद्यन्तेऽश्वगजादिभिः । वारिप्रवाहैः प्लान्यन्ते दह्यन्ते च दवाग्निना ॥१६॥ व्यथ्यन्ते लवणाचाम्ल मृत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः क्वथ्यन्ते चोष्णवारिणि ॥१७॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्ट कादिसात् । चीयन्ते भित्तिमध्ये च कृत्वा कर्दमरूपताम् ॥१८॥ केचिच्छाणैनिघृष्यन्ते विपच्य क्षारमृत्पुटैः । टङ्कान्दुकैर्विदार्यन्ते पाट यन्तेऽद्रिसरित्प्लवैः ॥१९॥ अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांशुभिः ॥२०॥ क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्थाल्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥२१॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुटयन्ते ज्वाल्यन्ते चेन्धनादिभिः ॥२२॥ वायुकायत्वमप्याप्ता हन्यन्ते व्यजनादिभिः । शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥२३॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः॥२४॥
॥५९६॥