________________
योगशास्त्रम्
॥५९५॥
प्रकाशः
ततः समग्रेऽपि लोकाकाशे चतुर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत् शरीरि भिरुत्पद्यमानै विपद्यमानश्च न स्पृष्टम् । अत्र हेतुमाह-किंविशिष्टैः शरीरिभिः ? सूक्ष्मवादरप्रत्येकसाधारणैकेन्द्रियभेदतो द्वित्रिचतुष्पचन्द्रियभेदतश्च यथायोग्यं नानारूपैः। नानारूपत्वमपि कुतः ? स्वकर्मतः, न त्वीश्वरादिप्रेरणया, यदाहुः परे
अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥१॥ तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत । कर्मसापेक्षतायां त्वीश्वरस्यास्वातन्त्र्यं वैफल्यं वा स्यादिति कर्मैवास्तु प्रेरकम् , किमीश्वरेण ? यदवोचाम वीतरागस्तोत्रेकर्मापेक्षः स चेत् तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किंमनेन शिखण्डिना ? ॥१॥ अत्रान्तरश्लोकाःसंसारिणश्चतुर्भेदाः श्वभ्रतियग्नरामराः। प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥१॥ आद्येषु त्रिषु नरकेपृष्ण शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ॥२॥ नरकेषूष्णशीतेषु चेत् पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥३॥ उदीरितमहादुःखा अन्योन्येनासुरैश्च ते। इति त्रिविध-दुःखार्ता वसन्ति नरकावनौ ॥४॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वाराद् यथा सीसशलाकिकाः ॥५॥ गृहीत्वा पाणिपादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥६॥ दारुदारं विदार्यन्ते दारुणैः कुकचैः क्वचित् । तिलपेषं च पिष्यन्ते चित्रयन्त्रैः कचित् पुनः ॥७॥ पिपासार्ताः पुनस्तप्तत्र
॥५९५॥