________________
RECE
योगशास्त्रम्
चतुथ प्रकाशः
॥५९४॥
तीति । हन्तेत्यामन्त्रणे । कैनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति, स्वामी प्रभुः स | एव पत्तिर्भवति, ब्रह्मा प्रजापतिः स एव कृमिर्भवति । यथेष्टं च विध्यनुवादौ, तेन श्वपचः श्रोत्रियः पतिः स्वामी, कृमिब्रह्मा, इत्यपि द्रष्टव्यम् । यथा हि नाटचे विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति ॥६५||तथा न याति कतमां योनि कतमां वा न मुञ्चति । संसारी कर्मसम्बन्धोदवक्रयकुटीमिव॥६६॥
योनिमेकेन्द्रियादिलक्षणां कतमा न याति ? सर्वामपि यातीत्यर्थः, कतमा वा योनि न मुश्चति ? सर्वामपि मुश्चतीत्यर्थः, संसारो जन्तुः । कुतो हेतोरित्याह-कर्मसम्बन्धात; अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोपयोगहेतोगृहमेधी एकां कुटीं प्रविशति, उपयोगाभावे तां मुञ्चतिः उपयोगान्तराच्च कुटयन्तरमादत्ते, परिहरति च, एवं नियतकर्मोपभोगहेतोरेकां योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तरं तूपादत्ते पुनश्च परिहरति, न पुनर्नियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥६६॥ तथासमस्तलाकाकाशेपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः।६७। __ इहाकाशं द्विविधं-लोकाकाशमलोकाकाशं च । यत्र धर्माधर्मजीवपुद्गलानां सम्भवोऽस्ति तल्लोकाकाशम् , इतरत्त्वलोकाकाशम् , यदाह,
धर्मादीनां वृत्तिव्याणां यत्र भवति तत् क्षेत्रम् । तैद्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकारख्यम् ॥१॥
॥५९४॥