________________
पोन
शास्त्रम्
॥५९३॥
अष्टाङ्गेनायुर्वेदेन जीवातुभिरथागदैः । मृत्युंजयादिभिर्मन्त्रैस्त्राणं नैवास्ति मृत्युतः ||१|| खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिङ्करैः ॥२॥ जलमध्यस्थितस्तम्भमूर्ध्वपञ्जरमध्यगम् । राज्ञः प्रियसुतं मृत्युश्चकर्षान्यस्य का कथा ? || ३ || षष्टिं पुत्रसहखाणि सगरस्यापि चक्रिणः । तृणवत् त्राणरहितान्यदहज्ज्वलनप्रभः ||४|| आस्कन्ध स्कन्दकाचार्य मुनिपश्चशतीं घ्नतः । न कश्चिदभवत् त्राता पालकादन्तकादिव ||५|| यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् ॥६॥ येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमभ्रूभङ्गभीतास्तेऽप्यास्ये निदधतेऽङ्गगुलीः ||७|| स्नेहादाश्लिष्य शक्रेणार्द्धासनेऽ ध्यास्यते स्म यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ||८|| मुनीनामप्यपापानामसिधारोपमैर्व्रतैः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ||९|| अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥१०॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥११॥ एवं विश्वमनाकुल: कवलयन्नान्ब्रह्म कीटावधि, श्रान्ति याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलं भूष्णुता - मालम्बेत शरण्यवर्जितमिदं हा ! हा ! जगत् ताम्यति ॥ १२ ॥ अशरणभावना ॥२॥६४॥
अथ संसारभावनां श्लोकत्रयेणाह -
श्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाटये नटवत् संसारी हन्त ! चेष्टते । ६५ । संसारो नानायोनिषु सञ्चरणं स एव नाटचं नटकर्म तत्र नटवत् नर्तकवत् संसारी जन्तुश्चेष्टते विविधां चेष्टां करो
चतुर्थ
प्रकाशः
॥५९३॥