________________
पोगशाखम्
चतुर्थ प्रकाशः
1५९२॥
भये उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ?-कोऽपि नास्तीत्यर्थः ॥६१॥ तथा-- पितुर्मातुःस्वसुर्धातुस्तनयानां च पश्यताम् । अत्राणोनीयते जन्तुः कर्मभिर्यमसद्मनि ॥६२॥
पित्रादीनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्यमसद्मनि यमालये नीयते । एतच लोकप्रसिद्धद्यपेक्षम्, न पुनर्यमसद्मनि कश्चिद् नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तद्गत्युचितैः कर्मभिस्तत्र तत्र नीयत इति परमार्थः ॥६२।। तथाशोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः। नेष्यमाणं तु शोचन्ति नात्मानं मूढबुद्धयः॥६३॥
शोचन्ति शोकविषयतां नयन्ति स्वजनान बन्धन , अन्तमवसानं नीयमानान् स्वकर्मभिर्भवान्तरवेदनीयैर्मुढबुद्धय इन्युत्तरेण योगः। आत्मानं तु स्वकर्मभिरेवान्त नेष्यमाणं न शोचन्ति । संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम् , संनिहितश्चात्मा, तस्य शोचनीयतां मुक्त्वा व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥६॥
अशरणभावनामुपसंहरतिसंसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते। वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥६॥
संसारे शरणं देहिनो नास्ति । कस्येव । कुत्र ? वने मृगार्भकस्येव । किविशिष्टे संसारे ? दुखमेव दावाग्निस्तस्य ज्वलन्त्यो या ज्वाला दुःखस्यैव प्रभेदास्तैः करालिते रौद्रे । वने किविशिष्टे ? दुःखो दुःखहेतुर्यों दावाग्निस्तस्य म्वलन्त्यो या ज्वालास्ताभिः करालिते। अर्भकग्रहणमतिमौग्ध्यख्यापनार्थम् । अशरणभावना अत्रान्तरश्लोकाः
॥५९२॥