________________
प्रकाशा
योगशास्त्रम् ॥५९१॥
समागमाः सापगमाः सुहृद्भिर्बन्धुभिनिजैः। स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥१८॥ ध्यायननित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥१६॥ एतच्छरीरधनयौवनबान्धवादि, तावद् न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेष-मुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥२०॥५७॥५८॥५९॥
अनित्यताभावनामुपसंहरन्नुपदर्शयति| इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्रीय निर्ममत्वाय चिन्तयेत् ॥६०॥
इति पूर्वोक्तप्रकारेण जगद्वृत्तं जगत्स्वरुपमनित्यं प्रतिक्षणं चिन्तयेदवधारयेत्, स्थिरचित्तो निश्चलचित्तः सन् किमर्थम् ? निर्ममत्वाय-अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम् । किविशिष्टाय ? तृष्णाकृष्णाहिमन्त्रायतृष्णा रागः सैव कृष्णाहिस्तस्या मन्त्राय मन्त्रस्वरूपाय | अहिशब्दः स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोभिन्न लिङ्गत्वम् । अनित्यता ॥१॥६०॥
अथाशरणभावनामुपदिशति| इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो! तदन्तकातके कः शरण्यः शरीरिणाम ? ६१
इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवस्तावादी येषां सुरमनुष्यादीनां, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले शरणत्वोपहासपरम्, तेऽपि यद् यस्माद् मृत्येर्गोचरं वशं यान्ति; अहो इति विस्मये, तत् तस्मादन्तकातके मृत्यु
॥५९१॥