________________
चत
पोगशास्त्रम्
प्रकाशा
१५९०॥
स्वतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः । कृतान्तदन्तयन्त्रस्था; कष्ट जीवन्ति जन्तवः ॥ १॥ वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ? ॥ २ ॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चश्चापुंसि कगेतु सः ॥३॥ न मन्त्रतन्त्रभैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥४॥ प्रवर्द्धमानं पुरुषं प्रथमं असते जरा । ततः कृतान्तस्त्वरते धिगहो ! जन्म देहिनाम् ॥५॥ यद्यात्मानं विजानियात् कृतान्तवशनर्तिनम् । को ग्रासमपिगृहणीयात् पापकर्मसु का कथा ? ॥ ६ ॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुदबुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ७ ॥ आढयं निःस्वं नृपं रकं ज्ञं मुखं सज्जनं खलम् । अविशेषेण संहतुं समवर्ती प्रवर्तते ॥ ८ ॥ न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु चास्ति न । दवाग्निवदरण्यानि विलुम्पत्यन्तको जनम् ॥ ९ ॥ इदं तु मा स्म शकिष्ठाः कुशास्त्रैरपि मोहितः । कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥१०॥ ये मेरुं दण्डसात् कर्तुं पृथ्वीं वा छत्रसात् क्षमाः। तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ।। ११ ॥ आ कीटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥१२॥ पूर्वेषां चेत् क्वचित् कश्चिजीवन् दृश्येत तद् वयम् । मनोरथातीतमपि प्रतीमः कालवञ्चनम् ॥१३॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः। बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥१४॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया । निकामकृतथूत्कारं त्यज्यन्ते तेऽपि वाईके ॥१५॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥१६॥ उपमानपदं किं स्यात् फेनबुबुदविद्युताम् । धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ? ॥१७॥
॥५९०॥