________________
चतर्थ
प्रकाशा
योगशास्त्रम्
साम्यं स्याद् निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥५५॥ अशौचमाश्रवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशी बोधिभावनाम् ॥५६
साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्यनिर्ममत्वयोः को भेदः ? उच्यते-साम्यं राग-द्वेषयोरुभयोरपि प्रतिपक्षभूतम्, निर्ममत्वं रागस्यैकस्य प्रतिपक्षभूतम् । तदोषद्वयनिवारणाय साम्ये चिकिर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतु निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति-तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी । प्रकृता भावना नामतः कथयति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥५५॥५६।। __ तद्यथा । तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमां भावनां दर्शयतियत्प्रातस्तन्न मध्याहने यन्मध्याह्ने न तनिशि । निरीक्ष्यते भवेऽस्मिन् हो! पदार्थानामनित्यता ।५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोध्धूतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमोः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम्।५९॥
श्लोकत्रयं स्पष्टम्, नवरं शरीरमित्यादिश्लोके पूर्वाः यदिति शेषः; उत्तरार्दै तदिति शेषः ॥ अत्रान्तरश्लोकाः
१५८९॥
-