________________
योगशाखम्
चतुर्थ प्रकाश
॥५८८॥
शप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते ॥३॥ न हूयते तप्यते न दीयते वा न किश्चन । अहो! अमूल्यक्रीतीयं साम्यमात्रेण निवृतिः ॥४॥ प्रयत्नकृष्टः क्लिष्टैश्च रागाद्यैः किमुपासितैः ? । अयत्नलभ्यं हृद्यं च श्रय साम्यं सुखावहम् ॥५॥ परोक्षार्थप्रतिक्षेपात् स्वर्गमोक्षावपहनुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निहनुते ॥६॥ कविप्रलापरूढेऽस्मिन्नमृते कि विमुह्यसि ? स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥७॥ खाद्यलेह्यचू (चो) ष्यपेयरसेभ्यो विमुखा अपि । पिबन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ॥८॥ कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ॥९॥ न गूढं किश्चनाचार्यमुष्टिः काचिद् न चापरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥१०॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलानि ते ॥१॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत् पापिनः क्षणेनापि पदमियति शाश्वतम् ॥१२॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै समत्वाय महौजसे ॥१३॥ विगाह्य सर्वशास्त्रार्थमिदच्चैस्तरां ब्रुवे । इहामुत्र स्वपरयोर्नान्यत् साम्यात् सुखाकरम् ॥१४॥ संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । नैतत्कालोचित किश्चित् साम्यादौपयिकं परम् ॥१५॥ रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी, भुक्त्वा भुक्त्वा निरन्ताः शुभगतिपदवीं लेभिरे प्राणभाजः। तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैनिकामं, साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः॥१६॥५४॥ ___ नन्बवगतमेतत् सर्वदोषनिवारणकारणं समत्वम् , प्रीताः स्मः, यदि तु साम्यं प्रत्यप्युपायः कश्चन स्यात् । तदुपायेऽप्युपायान्तरमीपत्करं स्यात् , तदा निराकाक्षाः प्रमोदामहे, इत्येतद् मनसि कृत्वा श्लोकद्वयमाह--
11५८८॥