________________
योग
चतुर्थ
शास्त्रम्
प्रकाशा
॥५८७॥
परमात्मान एव, केवलज्ञानस्य येन तेनांशेन सर्वत्र भावात् , यत् पारमर्षम्-"सव्वजीवाणं पि अणं अक्खरस्साणंतभागो निच्चुग्धाडिओ चेव" । केवलं रागद्वेषादिदोषकलुषितत्वाद् न साक्षात् परमात्मस्वरूपाभिव्यक्तिः। सामायिकांशुमत्प्रकाशनेन तु रागादितिमिरेऽपगते आत्मन्येव परमात्मस्वरूपमभिव्यक्तं भवति ॥५३॥ ___ इदानीं साम्यप्रभावं व्यनक्तिस्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः।५४।। ___ अपि स्वार्थकृते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद नित्यवैरिणोऽप्यहिनकुलादयः स्निह्यन्ति परस्परं मैत्रीं कुर्वन्ति । अयमर्थः-ईदृशः साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्यवैरिषु पर्यवस्यति. यत् स्तुवन्ति विद्वांसः
देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली, कण्डूयत्यहिरेष बभ्रपुरतो मार्ग निरुध्य स्थितः। व्याघ्रव्यात्तविशालवक्त्रकुहरं जिघ्रत्यजस्रं मृगो, यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ॥१॥ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा-तत्सन्निधौ वैरत्याग इति । अत्रान्तर श्लोकाः
चेतनाचेतन वैरिष्टानिष्टतया स्थितेः । न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥१॥ गोशीर्षचन्दनाले पे वासीच्छेदे च वाहयोः २अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तरम् ॥२॥ अभिष्टोतरि च प्रीते रोषान्धे चापि
१ सर्वजीवानामप्यक्षरस्यानन्तभागो नित्योद्घाटित एव । २ भुजयोः
॥५८७॥