________________
योगशास्त्रम् ।
चतुर्थ प्रकाशा
५८६।।
कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः। विभिन्नीकुरुते साधुः सामायिकशलाकया॥५२॥
सामायिकमेव समत्वमेव शलाका वंशादिमयी तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः। किं विभिन्नीकुरुते ? कर्म जीवं च संश्लिष्टं संपृक्तम्, यथा श्लेषद्रव्यसंपृक्तानां पात्रादीनां शलाकया पृथग्र भावः क्रियते तथा जीवकर्मणोरपि तादात्म्येन संबद्धयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुतलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम्, आत्मनस्तु पृथग्भूतानि कर्माणि क्षीणानि इत्युच्यन्ते । ननु वाङ्मात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतीत्याह--परिज्ञातात्मनिश्चयः परिज्ञातः पुनः पुनः संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा । अयमर्थः--आत्मज्ञानमभ्यस्यस्तथाविधावरणापगमेन तथा पुनः पुनः स्वसंवेदनेनात्मनिश्चयं दृढं करोति यथात्मरूपाद् भिन्नरूपाणि आत्मरूपावारकाणि च कर्माणि परमसामायिकबलेन निर्जरयति ॥ ५२ ॥
न केवलमात्मनिश्चयबलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याह-- रागादिध्वान्तविध्वंसे कृते सामयिकांशुना। स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः॥५३॥
रागादय एव स्वरूपतिरोधायकत्वाद् ध्वान्तं तस्य विध्वंसस्तस्मिन् कृते । केन ? सामायिकमेवांशुरादित्यस्तेन । ततः किं स्यात् ! स्वस्मिन्नात्मनि परमात्मनः स्वरूपं योगिनः पश्यन्ति । सर्वेऽपि ह्यात्मानस्तत्त्वतः
॥५८६॥