________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥५८५॥
निर्वाणपदकाक्षिभिः निर्वान्ति रागद्वेषोपतप्ताः शीतीभवन्त्यस्मिन्निति निर्वाणं तदेव पद्यमानत्वात् पदं तत्काक्षणशीला निर्वाणपदकाक्षिणः, तैर्विधातव्यो विधेयो रागद्वेषावेवोपतापकारित्वाद द्विषन्तौ तयोर्जयोऽभिभवः, केनोपायेनेत्याह-समत्वेन, रागहेतुषु द्वेपहेतुषु च माध्यस्थ्येनौदासीन्येनेति यावत् ॥ ४९॥ ___ यथा साम्यं रागद्वेषजयोपायस्तथाऽऽह-- अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ॥५०॥
साम्यमेवातिशीतीभावजनकत्वाद् वारि तत्र । किविशिष्टे ? अमन्दस्तीतो य आनन्द आहादस्तस्य जनने, मज्जतां तन्मध्यमवगाहमानानां, सहसा अकस्मात् । केषां ? पुसां। रागद्वेषावेव मलस्तस्य क्षयः। प्रसिद्ध पेतद् यथा बारिणि मज्जतां मलक्षयो भवति, एवं साम्ये निमज्जतां लीयमानानां रागद्वेपक्षयो भवति ॥ ५० ॥
न परं रागद्वेषयोरेवापनायकं साम्यम्, अपि तु सर्वकर्मणामपीत्याह-- प्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः॥५१॥
प्रणिहिन्त निहन्ति क्षणार्धनान्तर्मुहूर्तेन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किश्चित् कर्म न हन्याद नापनयेद नरः पुमान् तीव्रतपसा तीव्रण शरीरमनसोः संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन जन्मकोटिभिर्बहुभिरपि जन्मभिः ॥ ५१ ॥ कथमन्तर्मुहूत्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह
॥५८५॥